वदने मौनम्‌

वदने मौनम्‌ , मनसि च शून्यम्‌

यदिह कलयति - ध्यानं ध्यानम्‌ ॥


कथने तथ्यं ; वचसि च सत्यम्‌

तदिह कलयति - ज्ञानं ज्ञानम्‌ ॥


करणे न्याय्यम्‌ ; चरणे विनयः

तदिह कलयति - धर्मं धर्मम्‌ ॥


आत्मनि शान्तिः ; चिन्मयमभयम्

तदिह कलयति - मोक्षं मोक्षम्‌ ॥


ध्यानं भोगः, ज्ञानं विभवः

सत्यं परं दैवतम्‌...

No Copyright. Please spread the message of Anapanasati Meditation, Vegetarianism and Spiritual Science to the whole world.
Powered by PyramidEarth